Menu
blogid : 14886 postid : 604402

गणेश आरती

Hindi Blog World
Hindi Blog World
  • 49 Posts
  • 9 Comments

॥ श्री गजानन प्रसन्न ॥

ganesh aarti

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि ।

गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि ।

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

गानचतुराय गानप्राणाय गानान्तरात्मने ।

गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे ।

गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने ।

गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे ।

गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय ।

गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय ।

गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि ।

गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि ।

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने ।

गीतलीनाय गीताश्रयाय गीतवाद्यपटवे ।

गेयचरिताय गायकवराय गन्धर्वप्रियकृते ।

गायकाधीनविग्रहाय गङ्गाजलप्रणयवते ।

गौरीस्तनन्धयाय गौरीहृदयनन्दनाय ।

गौरभानुसुताय गौरीगणेश्वराय ।

गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि ।

गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि ।

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।

गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

Ganesh Aarti

Read Comments

    Post a comment

    Leave a Reply